|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.64. अध्यायः 064
Mahabharata - Karna Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-64-0x(4989)(58137)
ततः सरथनागाश्वाः पाञ्चालाः पाण्डुसृञ्जयाः।
सेनापतिं परीप्सन्तो रुरुधुस्तनयं तव॥ 8-64-1(58138)
ततः प्रववृते युद्वं तावकानां परैः सह।
घोरं प्राणभृतां काले भीमरूपं परन्तप॥ 8-64-2(58139)
नकुलो वृषसेनं तु विद्ध्वा पञ्चभिरायसैः।
पितुः समीपे तिष्ठन्तं त्रिभिरन्त्यैरविध्यत॥ 8-64-3(58140)
नकुलं तु ततः शूरो वृषसेनो हसन्निव।
नाराचेन सुतीक्ष्णेन विव्याध हृदये भृशम्'॥ 8-64-4(58141)
सोऽतिविद्धो बलवता शत्रुणा शत्रुकर्शन।
शत्रुं विव्याध विंशत्या सूतं चैवास्य सप्तभिः॥ 8-64-5(58142)
ततः शरसहस्रेण तावुभौ पुरुषर्षभौ।
अन्योन्यमाच्छादयतां तवाभज्यत वाहिनी॥ 8-64-6(58143)
स दृष्ट्वा प्रद्रुतां सेनां धार्तराष्ट्रस्य सूतजः।
निवारयामास बलादनुपत्य विशाम्पते॥ 8-64-7(58144)
`एतस्मिन्नन्तरे युद्धं कष्टमासीद्विशाम्पते'।
निवृत्ते तु ततः सैन्ये नकुलः कौरवान्ययौ॥ 8-64-8(58145)
कर्णपुत्रस्तु समरे हित्वा नकुलमेव तु।
जुगोप चक्रं त्वरितो राधेयस्यैव मारिष॥ 8-64-9(58146)
उलूकस्तु रणे क्रुद्धः सहदेवेन मारिष।
`निवारितः शरशतैः क्रुद्धेन रणमूर्धनि॥ 8-64-10(58147)
तस्याश्वांश्चतुरो हत्वा सहदेवः प्रतापवान्।
सारथिं प्रेषयामास यमस्य सदनं प्रति॥ 8-64-11(58148)
उलूकस्तु ततो यानादवप्लुत्य विशाम्पते।
त्रिगर्तानां बलं तूर्णं जगाम पितृनन्दनः॥ 8-64-12(58149)
सात्यकिः शकुनिं विद्ध्वा विंशत्या निशितैः शरैः।
ध्वजं चिच्छेद भल्लेन सौबलस्य हसन्निव॥ 8-64-13(58150)
सौबलस्तस्य समरे क्रुद्धो राजन्प्रतापवान्।
विदार्य कवचं भूयो ध्वजं चिच्छेद काञ्चनम्॥ 8-64-14(58151)
तथैनं निशितैर्बाणैः सात्यकिः प्रत्यविध्यत।
सारथिं च महाराज त्रिभिरेव समार्पयत्॥ 8-64-15(58152)
अथास्य वाहांस्त्वरितः शरैर्नित्ये यमक्षयम्।
ततोऽवप्लुत्य सहसा शकुनिर्भरतर्षभ॥ 8-64-16(58153)
आरुरोह रथं तूर्णमुलूकस्य महात्मनः।
अपोवाहाथ शीघ्रं स शैनेयाद्युद्धशालिनः॥ 8-64-17(58154)
सात्यकिस्तु रण राजंस्तावकानामनीकिनीम्।
अभिदुद्राव वेगेन ततोऽनीकमभज्वत॥ 8-64-18(58155)
शैनेयशरसञ्छन्नं तव सैन्यं विशाम्पते।
भेजे दशा दिशस्तूर्णं न्यपतच्च गतासुवत्॥ 8-64-19(58156)
भीमसेनं तव सुतो वारयामास संयुगे॥ 8-64-20(58157)
तं तु भीमो मुहूर्तेन व्यश्वसूतरथध्वजम्।
चक्रे लोकेश्वरं तत्र तेनातुष्यन्त वै जनाः॥ 8-64-21(58158)
ततोऽपायान्नृपस्तस्माद्भीमसेनभयार्दितः।
कुरुसैन्यं ततः सर्वं भीमसेनमुपाद्रवत्।
तत्र नादो महानासीद्धीमसेनं जिघांसताम्॥ 8-64-22(58159)
युधामन्युः कृपं विद्ध्वा धनुरस्याशु चिच्छदे।
अथान्यद्धनुरादाय कृपः शस्त्रभृतां वरः।
युधामन्योर्ध्वजं सूतं छत्रं चापातयत्क्षितौ॥ 8-64-23(58160)
ततोऽपायाद्रथेनैव युधामन्युर्महारथः॥ 8-64-24(58161)
उत्तमौजाश्च हार्दिक्यं भीमं भीमपराक्रमम्।
छादयामास सहसा मेघो वृष्ट्येव पर्वतम्॥ 8-64-25(58162)
तद्युद्धमासीत्सुमहद्धोररूपं परन्तप।
तादृशं न मया युद्धं दृष्टपूर्वं विशाम्पते॥ 8-64-26(58163)
कृतवर्मा ततो राजन्नुत्तमौजसमाहवे।
हृदि विव्याध सहसा रथोपस्थ उपाविशत्॥ 8-64-27(58164)
सारथिस्तमपोवाह रथेन रथिनां वरम्।
ततस्तु सात्वतो राजन्पाण्डुसैन्यमभिद्रवत्॥ 8-64-28(58165)
[दुःशासनः सौबलश्च गजानीकेन पाण्डवम्।
महता परिवार्यैव क्षुद्रकैरभ्यताडयत्॥ 8-64-29(58166)
ततो भीमः शरशतैर्दुर्योधनममर्षणम्।
विमुखीकृत्य तरसा गजानीकमुपाद्रवत्॥ 8-64-30(58167)
तमापतन्तं सहसा गजानीकं वृकोदरः।
दृष्ट्वैव सुभृशं क्रुद्धो दिव्यमस्त्रमुदैरयत्॥ 8-64-31(58168)
गजैर्गजानभ्यहनद्वज्रेणेन्द्र इवासुरान्॥ 8-64-32(58169)
ततोऽन्तरिक्षं बाणौघैः शलभैरिव पादपम्।
छादयामास समरे गजान्निघ्नन्वृकोदरः॥ 8-64-33(58170)
ततः कुञ्जरयूथानि समेतानि सहस्रशः।
व्यधमत्तरसा भीमो मेघसङ्घानिवानिलः॥ 8-64-34(58171)
सुवर्णजालापिहिता मणिजालैश्च कुञ्जराः।
रेजुरभ्यधिकं संख्ये विद्युत्वन्त इवाम्बुदाः॥ 8-64-35(58172)
ते वध्यमाना भीमेन गजा राजन्विदुद्रुवुः।
केचिद्विभिन्नहृदयाः कुञ्जरा न्यपतन्भुवि॥ 8-64-36(58173)
पतितैर्निपतद्भिश्च गजैर्हेमविभूषितैः।
अशोभत मही तत्र विशीर्णैरिव पर्वतैः॥ 8-64-37(58174)
दीप्ताभै रत्नवद्भिश्च पतितैर्गजयोधिभिः।
रराज भूमिः पतितैः क्षीणपुण्यैरिव ग्रहैः॥ 8-64-38(58175)
ततो भिन्नकटा नागा भिन्नकुम्भकरास्तथा।
दुद्रुवुः शतशः संख्ये भीमसेनशराहताः॥ 8-64-39(58176)
केचिद्वमन्तो रुधिरं भयार्ताः पर्वतोपमाः।
व्यद्रवञ्छरविद्धाङ्गा धातुचित्रा इवाचलाः॥ 8-64-40(58177)
महाभुजगसङ्काशौ चन्दनागुरुरूषितौ।
अपश्यं भीमसेनस्य धनुर्विक्षिपतो भुजौ॥ 8-64-41(58178)
तस्य ज्यातलनिर्घोषं श्रुत्वाशनिसमस्वनम्।
विमुञ्चन्तः शकृन्मूत्रं गजाः प्रादुद्रुवुर्भृशम्॥ 8-64-42(58179)
भीमसेनस्य तत्कर्म राजन्नेकस्य धीमतः।
निघ्नतः सर्वभूतानि रुद्रस्येव च निर्बभौ॥] ॥ 8-64-43(58180)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे चतुःषष्टितमोऽध्यायः॥ 64 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|